(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.349. अध्यायः 349
Mahabharata - Shanti Parva - Chapter Topics
श्रीहरेर्थज्ञेष्वग्रभागभाक्त्वप्रकारं पृष्टेन सौतिना तत्कथनाय शौनकादीन्प्रति ब्रह्मादीनां श्वेतद्वीपगमनादिप्रतिपादक व्यासवैशम्पायनादिसंवादानुवादः॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

शौकन उवाच। 12-349-0x(6593)(79781)
कथं स भगवान्देवो यज्ञेष्वग्रहरः प्रभुः।
यज्ञधारी च सततं वेदवेदाङ्गवित्तथा॥ 12-349-1(79782)
निवृत्तं चास्थितो धर्मं क्षेमी भागवतः प्रभुः।
निवृत्तिधर्मान्विदधे स एव भगवान्प्रभुः॥ 12-349-2(79783)
कथं प्रवृत्तिधर्मेषु भागार्हा देवताः कृताः।
कथं निवृत्तिधर्माश्च कृता व्यावृत्तबुद्धयः॥ 12-349-3(79784)
एतं नः संशयं सौते छिन्धि गुह्यं सनातनम्।
त्वया नारायणकथाः श्रुता वै धर्मसंहिताः॥ 12-349-4(79785)
सौतिरुवाच। 12-349-5x(6594)
जनमेजयेन यत्पृष्टः शिष्यो व्यासस्य धीमतः।
तत्तेऽहं कथयिष्यामि पौराणं शौनकोत्तम॥ 12-349-5(79786)
श्रुत्वा माहात्म्यमेतस्य देहिनां परमात्मनः।
जनमेजयो महाप्राज्ञो वैशम्पायनमब्रवीत्॥ 12-349-6(79787)
इमे सब्रह्यका लोकाः ससुरासुरमानवाः।
क्रियास्वभ्युदयोक्तासु सक्ता दृश्यन्ति सर्वशः॥ 12-349-7(79788)
मोक्षश्चोक्तस्त्वया ब्रह्मन्निर्वाणं परमं सुखम्।
ये तु मुक्ता भवन्तीह पुण्यपापविवर्जिताः।
ते सहस्रार्चिषं देवं प्रविशन्तीह शुश्रुम्॥ 12-349-8(79789)
अयं हि दुरनुष्ठेयो मोक्षधर्मः सनातनः।
यं हित्वा देवताः सर्वा हव्यकव्यभुजोऽभवन्॥ 12-349-9(79790)
किंच ब्रह्मा च रुद्रश्च बलभित्प्रभुः।
सूर्यस्ताराधिपो वायुरग्निर्वरुण एव च॥ 12-349-10(79791)
आकाशं जगती चैव ये च शेषा दिवौकसः।
प्रलयं न विजानन्ति आत्मनः परिनिर्मितम्॥ 12-349-11(79792)
ततस्तेनास्थिता मार्गं ध्रुवमक्षरमव्ययम्।
स्मृत्वा कालपरीमाणं प्रवृत्तिं ये समास्थिताः।
दोषः कालपरीमाणो महानेष क्रियावताम्॥ 12-349-12(79793)
एतन्मे संशयं विप्र हृदि शल्यमिवार्पितम्।
छिन्धीतिहासकथनात्परं कौतूहलं हि मे॥ 12-349-13(79794)
कथं भागहराः प्रोक्ता देवताः क्रतुषु द्विज।
किमर्थं चाध्वरे ब्रह्मन्निज्यन्ते त्रिदिवौकसः॥ 12-349-14(79795)
ये च भागं प्रगृह्णन्ति यज्ञेषु द्विजसत्तम।
ते यजन्तो महायज्ञैः कस्य भागं ददन्ति वै॥ 12-349-15(79796)
वैशम्पायन उवाच। 12-349-16x(6595)
अहो गूढतमः प्रश्नस्त्वया पृष्टो जनेश्वर।
नातप्ततपसा ह्येष नावेदविदुषा तथा।
नापुराणविदा चैव शक्यो व्याहर्तुमञ्जसा॥ 12-349-16(79797)
हन्त ते कथयिष्यामि यन्मे पृष्टः पुरा गुरुः।
कृष्णद्वैपायनो व्यासो वेदव्यासो महानृषिः॥ 12-349-17(79798)
सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः।
अहं चतुर्थः शिष्यो वै पञ्चमश्च शुकः स्मृतः॥ 12-349-18(79799)
एतान्समागतान्सर्वान्पञ्च शिष्यान्दमान्वितान्।
शौचाचारसमायुक्ताञ्जितक्रोधाञ्जितेन्द्रियान्॥ 12-349-19(79800)
वेदानध्यापयामास महाभारतपञ्चमान्।
मेरौ गिरिवरे रम्ये सिद्धचारणसेविते॥ 12-349-20(79801)
तेषामभ्यस्यतां वेदान्कदाचित्संशयोऽभवत्।
एष वै यस्त्वया पृष्टस्तेन तेषां प्रकीर्तितः॥ 12-349-21(79802)
ततः श्रुतो मया चापि तवाख्येयोऽद्य भारत॥ 12-349-22(79803)
शिष्याणां वचनं श्रुत्वा सर्वाज्ञानतमोनुदः।
पराशरसुतः श्रीमान्व्यासो वाक्यमथाब्रवीत्॥ 12-349-23(79804)
मया हि सुमहत्तप्तं तपः परमदारुणम्।
भूतं भव्यं भविष्यं च जानीयामिति सत्तमाः॥ 12-349-24(79805)
तस्य मे तप्ततपसो निगृहीतेन्द्रियस्य च।
नारायणप्रसादेन क्षीरोदस्यानुकूलतः॥ 12-349-25(79806)
त्रैकालिकमिदं ज्ञानं प्रादुर्भूतं यथेप्सितम्।
तच्छृणुध्वं यथान्यायं वक्ष्ये संशयमुत्तमम्॥ 12-349-26(79807)
यथा वृत्तं हि कल्पादौ दृष्टं मे ज्ञानचक्षुषा।
परमात्मेति यं प्राहुः साङ्ख्ययोगविदो जनाः॥ 12-349-27(79808)
महापुरुषसंज्ञां स लभते स्वेन कर्मणा।
तस्मात्प्रसूतमव्यक्तं प्रधानं तं विदुर्बुधाः॥ 12-349-28(79809)
अव्यक्ताद्व्यक्तमुत्पन्नं लोकसृष्ट्यर्थमीश्वरात्।
अनिरुद्धो हि लोकेषु महानात्मेति कथ्यते॥ 12-349-29(79810)
योसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम्।
योऽहंकार इति प्रोक्तः सर्वतेजोमयो हि सः॥ 12-349-30(79811)
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।
अहंकारप्रसूतानि महाभूतानि पञ्चधा॥ 12-349-31(79812)
महाभूतानि सृष्ट्वैव तान्गुणान्निर्ममे पुनः।
भूतेभ्यश्चैव निष्पन्ना मूर्तिमन्तश्च ताञ्शृणु॥ 12-349-32(79813)
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः।
वसिष्ठश्च महात्मा वै मनुः स्वायंभुवस्तथा।
ज्ञेयाः प्रकृतयोऽष्टौ ता यासु लोकाः प्रतिष्ठिताः॥ 12-349-33(79814)
वेदान्वेदाङ्गसंयुक्तान्यज्ञयज्ञाङ्गसंयुतान्।
निर्ममे लोकसिद्ध्यर्थं ब्रह्मा लोकपितामहः॥ 12-349-34(79815)
अष्टाभ्यः प्रकृतिभ्यश्च जातं विश्वमिदं जगत्॥ 12-349-35(79816)
रुद्रो रोषात्मको जातो दशान्यान्सोसृजस्त्वयम्।
एकादशैते रुद्रास्तु विकाराः पुरुषाः स्मृताः॥ 12-349-36(79817)
ते रुद्राः प्रकृरतिश्चैव सर्वे चैव सुरर्षयः।
उत्पन्ना लोकसिद्ध्यर्थं ब्रह्माणं समुपस्थिताः॥ 12-349-37(79818)
वयं सृष्टा हि भगवंस्त्वया च प्रभविष्णुना।
येन यस्मिन्नधीकारे वर्तितव्यं पितामह॥ 12-349-38(79819)
योसौ त्वयाऽभिनिर्दिष्टो ह्यधिकारोऽर्थचिन्तकः।
परिपाल्यः कथं तेन साहंकारेण कर्तृणा॥ 12-349-39(79820)
प्रदिशस्व बलं तस्य योऽधिकारार्थचिन्तकः।
एवमुक्तो महादेवो देवांस्तानिदमब्रवीत्॥ 12-349-40(79821)
ब्रह्मोवाच। 12-349-41x(6596)
साध्वहं ज्ञापितो देवा युष्माभिर्भद्रमस्तु वः।
ममाप्येषा समुत्पन्ना चिन्ता या भवतामिह॥ 12-349-41(79822)
लोकतन्त्रस्य कृत्स्नस्य कथं कार्यः परिग्रहः।
कथं बलक्षयो न स्याद्युष्माकं ह्यात्मनश्च वै॥ 12-349-42(79823)
इतः सर्वेऽपि गच्छामः शरणं लोकसाक्षिणम्।
महापुरुषमव्यक्तं स नो वक्ष्यति यद्धितम्॥ 12-349-43(79824)
ततस्ते ब्रह्मणा सार्धमृषयो विबुधास्तथा।
क्षीरादस्योत्तरं कूलं जग्मूर्लोकहितार्थिनः॥ 12-349-44(79825)
ते तपः समुपातिष्ठन्ब्रह्मोक्तं वेदकल्पितम्।
स महानियमो नाम तपश्चर्या सुदारुणा॥ 12-349-45(79826)
ऊर्ध्वदृग्बाहवश्चैव एकाग्रमनसोऽभवन्।
एकपादस्थिताः सर्वे काष्ठभूताः समाहिताः॥ 12-349-46(79827)
दिव्यं वर्षसहस्रं ते तपस्तप्त्वा सुदारुणम्।
शुश्रुवुर्मधुरां वाणीं वेदवेदाङ्गभूषिताम्॥ 12-349-47(79828)
वागुवाच। 12-349-48x(6597)
भोभोः सब्रह्यका देवा ऋषयश्च तपोधनाः।
स्वागतेनार्च्य वः सर्वाञ्श्रावये वाक्यमुत्तमम्॥ 12-349-48(79829)
विज्ञातं वो मया कार्यं तच्च लोकहितं महत्।
प्रवृत्तियुक्तं कर्तव्यं युष्मत्प्राणोपबृंहणम्॥ 12-349-49(79830)
सुतप्तं वस्तपो देवा ममाराधनकाम्यया।
भोक्ष्यथास्य महासत्वास्तपसः फलमुत्तमम्॥ 12-349-50(79831)
एष ब्रह्मा लोकगुरुः सर्वलोकपितामहः।
यूयं च विबुधश्रेष्ठा मां यजध्वं समाहिताः॥ 12-349-51(79832)
सर्वे भागान्कल्पयध्वं यज्ञेषु मम नित्यशः।
तत्र श्रेयोऽभिधास्यामि यथाऽधीकारमीश्वराः॥ 12-349-52(79833)
वैशम्पायन उवाच। 12-349-53x(6598)
श्रुत्वैतद्देवदेवस्य वाक्यं हृष्टतनूरुहाः।
ततस्ते विबुधाः सर्वे ब्रह्मा ते च महर्षयः॥ 12-349-53(79834)
वेददृष्टेन विधिना वैष्णवं क्रतुमाहरन्।
तस्मिन्सत्रे सदा ब्रह्मा स्वयं भागमकल्पयत्॥ 12-349-54(79835)
देवा देवर्षयश्चैव स्वंस्वं भागमकल्पयम्।
ते कार्तयुगधर्माणो भागाः परमसत्कृताः॥ 12-349-55(79836)
प्राहुरादित्यवर्णं तं पुरुषं तमसः परम्।
बृहन्तं सर्वगं देवमीशानं वरदं प्रभुम्॥ 12-349-56(79837)
ततोऽथ वरदौ देवस्तान्सर्वानमरान्स्थितान्।
अशरीरो बभापेदं वाक्यं स्वस्थो महेश्वरः॥ 12-349-57(79838)
येन यः कल्पितो भागः स तथा मामुपागतः।
प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम्।
एतद्वो लक्षणं देवा मत्प्रसादसमुद्भवम्॥ 12-349-58(79839)
यूयं यज्ञैरिज्यमानाः समाप्तवरदक्षिणैः।
युगेयुगे भविष्यध्वं प्रवृत्तिफलभागिनः॥ 12-349-59(79840)
यज्ञैर्ये चापि यक्ष्यन्ति सर्वलोकेषु वै सुराः।
कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान्॥ 12-349-60(79841)
यो मे यथा कल्पितवान्भागमस्मिन्महाक्रतौ।
स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः॥ 12-349-61(79842)
यूयं लोकान्भावयध्वं यज्ञभागफलोचिताः।
सर्वार्थचिन्तका लोके मयाऽधीकारनिर्मिताः॥ 12-349-62(79843)
याः क्रियाः प्रचरिष्यन्ति प्रवृत्तिफलसत्कृताः।
ताभिराप्यायितबला लोकान्वै धारयिष्यथ॥ 12-349-63(79844)
यूयं हि भाविता यज्ञैः सर्वयज्ञेषु मानवैः।
मां ततो भावयिष्यध्वमेषा वो भावना मम॥ 12-349-64(79845)
इत्यर्थं निर्मिता वेदा यज्ञाश्चौषधिभिः सह।
एभिः सम्यक्प्रयुक्तैर्हि प्रीयन्ते देवताः क्षितौ॥ 12-349-65(79846)
निर्माणमेतद्युष्माकं प्रवृत्तिगुणकल्पितम्।
मया कृतं सुरश्रेष्ठा यवात्कल्पक्षयादिह।
चिन्तयध्वं लोकहितं यथादीकारमीश्वराः॥ 12-349-66(79847)
मरीचिरङ्गिराश्चात्रिः पुलस्त्यः पुलहः क्रतुः।
वसिष्ठ इति सप्तैते मनसा निर्मिता हि ते॥ 12-349-67(79848)
एते वेदविदो मुख्या वेदाचार्याश्च कल्पिताः।
प्रवृत्तिधर्मिणश्चैव प्राजापत्ये च कल्पिताः॥ 12-349-68(79849)
अयं क्रियावतां पन्था व्यक्तीभूतः सनातनः।
अनिरुद्ध इति प्रोक्तो लोकसर्गकरः प्रभुः॥ 12-349-69(79850)
सनः सनत्सुजातश्च सनकः समनन्दनः।
सनत्कुमारः कपिलः सप्तमश्च सनातनः॥ 12-349-70(79851)
सप्तैते मानसाः प्रोक्ता ऋषयो ब्रह्मणः सुताः।
स्वयमागतविज्ञाना निवृत्तिं धर्ममास्थिताः॥ 12-349-71(79852)
एते योगविदो मुख्याः साङ्ख्यशास्त्रविशारदाः।
आचार्या धर्मशास्त्रेषु मोक्षधर्मप्रवर्तकाः॥ 12-349-72(79853)
यतोऽहं प्रसृतः पूर्वमव्यक्तात्रिगुणो महान्।
तस्मात्परतरो योसौ क्षेत्रज्ञ इति कल्पितः॥ 12-349-73(79854)
सोहं क्रियावतां पन्थाः पुनरावृत्तिदुर्लभः।
यो यथा निर्मितो जन्तुर्यस्मिन्यस्मिंश्च कर्मणि॥ 12-349-74(79855)
प्रवृत्तौ वा निवृत्तौ वा तत्फलं सोश्नुतेऽवशः।
एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः॥ 12-349-75(79856)
एष माता पिता चैव युष्माकं च पितामहः।
मयाऽनुशिष्टो भविता सर्वभूतवरप्रदः॥ 12-349-76(79857)
अस्य चैवात्मजो रुद्रो ललाटाद्यः समुत्थितः।
ब्रह्मानुशिष्टो भविता सर्वभूतधरः प्रभुः॥ 12-349-77(79858)
गच्छध्वं स्वानधीकारांश्चिन्तयध्वं यथाविधि।
प्रवर्तन्तां क्रियाः सर्वाः सर्वलोकेषु माचिरम्॥ 12-349-78(79859)
प्रदिश्यन्तां च कर्माणि प्राणिनां गतयस्तथा।
परिनिष्ठितकालानि आयूंषीह सुरोत्तमाः॥ 12-349-79(79860)
इदं कृतयुगं नाम कालः श्रेष्ठः प्रवर्तितः।
अहिंस्या यज्ञपशवो युगेऽस्मिन्न तदन्यथा॥ 12-349-80(79861)
चतुष्पात्सकलो धर्मो भविष्यत्यत्र वै सुराः।
ततस्त्रेतायुगं नाम त्रयी यत्र भविष्यति॥ 12-349-81(79862)
प्रोक्षिता यत्र पशवो वधं प्राप्स्यन्ति वै मखे।
यत्र पादश्चतुर्थो वै धर्मस्य न भविष्यति॥ 12-349-82(79863)
ततो वै द्वापरं नाम मिश्रः कालो भविष्यति।
द्विपादहीनो धर्मश्च युगे तस्मिन्भविष्यति॥ 12-349-83(79864)
ततस्तिष्येऽथ संप्राप्ते युगे कलिपुरस्कृते।
एकपादस्थितो धर्मो यत्र तत्र भविष्यति॥ 12-349-84(79865)
देवा ऊचुः। 12-349-85x(6599)
देवा देवर्षयश्चोचुस्तमेवंवादिनं गुरुम्।
एकपादस्थिते धर्मे यत्र क्वचन गामिनि।
कथं कर्तव्यमस्माभिर्भगवंस्तद्वदस्व नः॥ 12-349-85(79866)
श्रीभगवानुवाच। 12-349-86x(6600)
`गुरवो यत्र पूज्यन्ते साधुवृत्तसमन्विताः।
वस्तव्यं तत्र युष्माभिर्यत्र धर्मो न हीयते॥' 12-349-86(79867)
यत्र वेदाश्च यज्ञाश्च तपः सत्यं दमस्तथा।
अहिंसा धर्मसंयुक्ताः प्रचरेयुः सुरोत्तमाः।
स वो देशः सेवितव्यो मा वोऽधर्मः पदा स्पृशेत्॥ 12-349-87(79868)
व्यास उवाच। 12-349-88x(6601)
तेऽनुशिष्टा भगवता देवाः सपिगणास्तथा।
नमस्कृत्वा भगवते जग्मुर्देशान्यथेप्सितान्॥ 12-349-88(79869)
गतेषु त्रिदिवौकस्सु ब्रह्मैकः पर्यवस्थितः।
दिदृक्षुर्भगवन्तं तमनिरुद्धतनौ स्थितम्॥ 12-349-89(79870)
तं देवो दर्शयामास कृत्वा हयशिरो महत्।
साङ्गानावर्तयन्वेदान्कमण्डलुत्रिदण्डधृक्॥ 12-349-90(79871)
ततोऽश्वशिरसं दृष्ट्वातं देवममितौजसम्।
लोककर्ता प्रभुर्ब्रह्मा लोकानां हितकाम्यया॥ 12-349-91(79872)
मूर्ध्ना प्रणम्य वरदं तस्थौ प्राञ्जलिरग्रतः।
स परिष्वज्य देवेन वचनं श्रावितस्तदा॥ 12-349-92(79873)
भगवानुवाच। 12-349-93x(6602)
लोककार्यगतीः सर्वास्त्वं चिन्तय यथाविधि।
धाता त्वं सर्वभूतानां त्वं प्रभुर्जगतो गुरुः।
त्वय्यावेशितभारोऽहं धृतिं प्राप्स्याम्यथाञ्जसा॥ 12-349-93(79874)
यदा च सुरकार्यं ते अविषह्यं भविष्यति।
प्रादुर्भावं गमिष्यामि तदात्मज्ञानदैशिकः॥ 12-349-94(79875)
व्यास उवाच। 12-349-95x(6603)
एवमुक्त्वा हयशिरास्तत्रैवान्तरधीयत।
तेनानुशिष्टो ब्रह्मापि स्वं लोकमचिराद्गतः॥ 12-349-95(79876)
एवमेष महाभागः पद्मनाभः सनातनः।
यज्ञेष्वग्रहरः प्रोक्तो यज्ञधारी च नित्यदा॥ 12-349-96(79877)
निवृत्तिं चास्थितो धर्मं गमिमक्षयधर्मिणाम्।
प्रवृत्तिधर्मान्विदधे कृत्वा लोकस्य चित्रताम्॥ 12-349-97(79878)
स आदिः स मध्यः स चान्तः प्रजानां
स धाता स धेयं स कर्ता स कार्यम्।
युगान्ते प्रसुप्तः सुसंक्षिप्य लोकान्
युगादौ प्रबुद्धो जगद्ध्युत्ससर्ज॥ 12-349-98(79879)
तस्मै नमध्वं देवाय निर्गुणाय महात्मने।
अजाय विश्वरूपाय धाम्ने सर्वदिवौकसाम्॥ 12-349-99(79880)
महाभूताधिपतये रुद्राणां पतये तथा।
आदित्यपतये चैव वसूनां पतये तथा॥ 12-349-100(79881)
अश्विभ्यां पतये चैव मरुतां पतये तथा।
वेदयज्ञाधिपतये वेदाङ्गपतयेऽपि च॥ 12-349-101(79882)
समुद्रावसिने नित्यं हरये मुञ्जकेशिने।
शान्ताय सर्वभूतानां मोक्षधर्मानुभाषिणे॥ 12-349-102(79883)
तपसां तेजसां चैव पतये यशसामपि।
वचसां पतये नित्यं सरितां पतये तथा॥ 12-349-103(79884)
कपर्दिने वराहाय एकशृङ्गाय धीमते।
विवस्वतेऽश्वशिरसे चतुर्मूर्तिधृते सदा।
सूक्ष्माय ज्ञानदृश्याय अजरायाक्षयाय च॥ 12-349-104(79885)
एष देवः संचरति सर्वत्र गतिरव्ययः।
[एष चैतत्परं ब्रह्म ज्ञेयो विज्ञानचक्षुषा॥] 12-349-105(79886)
एवमेतत्पुरा दृष्टं मया वै ज्ञानचक्षुषा।
कथितं तच्च वै सर्वं मया पृष्टेन तत्त्वतः॥ 12-349-106(79887)
क्रियतां मद्वचः शिष्याः सेव्यतां हरिरीश्वरः।
गीयतां वेदशब्दैश्च पूज्यतां च यथाविधि॥ 12-349-107(79888)
वैशम्पायन उवाच। 12-349-108x(6604)
इत्युक्तास्तु वयं तेन वेदव्यासेन धीमता।
सर्वे शिष्या सुतश्चास्य शुकः परमधर्मवित्॥ 12-349-108(79889)
स चास्माकमुपाध्यायः सहास्माभिर्विशांपते।
चतुर्वेदोद्गताभिस्तमृग्भिः समभितुष्टुवे॥ 12-349-109(79890)
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि।
एवं मेऽकथयद्राजन्पुरा द्वैपायनो गुरुः॥ 12-349-110(79891)
यश्चेदं शृणुयान्नित्यं यश्चैनं परिकीर्तयेत्।
नमो भगवते कृत्वा समाहितमतिर्नरः॥ 12-349-111(79892)
भवत्यरोगो मतिमान्बलरूपसमन्वितः।
आतुरो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्॥ 12-349-112(79893)
कामकामी लभेत्कामं दीर्घं चायुरवाप्नुयात्।
ब्राह्मणः सर्ववेदी स्यात्क्षत्रियो विजयी भवेत्॥ 12-349-113(79894)
वैश्यो विपुललाभः स्याच्छूद्रः सुखमवाप्नुयात्।
अपुत्रो लभते पुत्रं कन्या चैवेप्सितं पतिम्॥ 12-349-114(79895)
लग्नगर्भा विमुच्येत गर्भिणी जनयेत्सुतम्।
बन्ध्या प्रसवमाप्नोति पुत्रपौत्रसमृद्धिमत्॥ 12-349-115(79896)
क्षेमेण गच्छेदध्वानमिदं यः पठते पथि।
यो यं कामं कामयते स तमाप्नोति च ध्रुवम्॥ 12-349-116(79897)
इदं महर्षेर्वचनं विनिश्चितं
महात्मनः पुरुषवरस्य कीर्तितम्।
समागमं चर्षिदिवौकसामिमं
निशम्य भक्ताः सुसुखं लभन्ते॥ ॥ 12-349-117(79898)

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये एकोनपञ्चाशदधिकत्रिशततमोऽध्यायः॥ 349॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-349-1 यज्ञेष्वाहूयते प्रभुरिति ट. ध. पाठः॥ 12-349-2 क्षेमं भागवतं प्रभुरिति ट. पाठः॥ 12-349-12 स्मृतिकालपरीमाणमिति झ. पाठः॥ 12-349-29 लोकेषु महाराजेति कथ्यत इति थ. पाठः॥ 12-349-32 निष्पन्नानष्टौ मूर्तिमतः शृण्विति ध. पाठः॥ 12-349-35 निर्ममे लोकसृष्ट्यर्थमिति थ. ध. पाठः॥ 12-349-90 कमण्डलुपवित्रधृगिति ध. पाठः॥ 12-349-94 तदात्मज्ञानयोगजमिति ट. ध. पाठः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.